मन्दसौर शिलालेख
यशोधर्मन-विष्णुवर्धन का मन्दसौर शिलालेख | |
---|---|
सामग्री | पत्थर |
कृति | c. 532 ई |
यशोधर्मन-विष्णुवर्धन का मन्दसौर शिलालेख मध्य प्रदेश के मन्दसौर में स्थित एक शिलालेख है जो प्राकृतपाली मिश्रित संस्कृत भाषा एवं गुप्त लिपि में है। इसका लेखनकाल लगभग 532ई माना गया है। यह लेख 2 फुट चौड़े तथा 1.5 फुट ऊँचे एवं 2.5 इंच मोटे पत्थर पर अंकित है। यह लेख ॐ से आरम्भ होता है, जिसके पश्चात शिव के मंगलाचरण है। इसके अन्त में लिपिकार का नाम भी अंकित है। यह विभिन्न छन्दों में है।
लेख का पाठ
सिद्धं स जयति जगतां पतिः पिनाकी स्मितरवगीतिषु यस्य दन्तकान्तिः। द्युतिर् इव तडितां निशि स्फुरन्ती तिरयति च स्फुटयत्य् अदश् च विश्वं॥
स्वयम्भूर् भूतानां स्थितिलय[समु]-त्पत्तिविधिषु प्रयुक्तो येनाज्ञां वहति भुवनानां विधृतये। पितृत्वं चानीतो जगति गरिमाणं गमयता स शम्भुर् भूयान्सि प्रतिदिशतु भद्राणि भव[तां]॥
फणमणिगुरुभा(र्)[आक्क्]र्[आ]-न्तिदूरावनम्रं स्थगयति रुचम् इन्दोर् म्मण्डलं यस्य मूर्ध्नां स शिरसि विनिबध्नन् रन्ध्रिणीम् अस्थिमालां सृजतु भवसृजो वः क्लेशभङ्गं भुजङ्गः॥
षष्ट्या सहस्रैः सगरात्मजानां खात[ः] खतुल्यां रुचम् आदधानः। अस्योदपानाधिपतेश् चिराय यशान्सि पायात् पयसां विधाता॥
अथ जयति जनेन्द्रः श्रीयशोधर्म्मनामा प्रमदवनम् इवान्तः शत्त्रुसैन्यं विगाह्य व्रण किसलयभङ्गैर् य्यो ङ्गभूषां विधत्ते तरुणतरुलतावद् (व्)ईरकीर्त्तीर् व्विन्(आ)म्य॥
आजौ जिती विजयते जगतीं पुनश् च श्रीविष्णुवर्द्धननराधिपतिः स एव। प्रख्यात औलिकरलाञ्छन आत्म-वङ्शो येनोदितोदितपदं गमितो गरीयः॥
प्राचो नृपान् सुबृहतश् च बहून् उदीचः साम्ना युधा च वशगान् प्रविधाय येन। नामापरं जगति कान्तम् अदो दुरापं राजाधिराजपरमेश्वर इत्य् उदूढं॥
स्निग्धश्यामाम्बुदाभैः स्थगितदिनकृतो यज्वनाम् आज्यधूमैर् अम्भो मेघ्यं मघोनावधिषु विदधता गाढसम्पन्नसस्याः। संहर्षाद् वाणिनीनां कररभसहृतो-द्यानचूताङ्कुराग्रा राजन्वन्तो रमन्ते भुजविजितभुवा भूरयो येन देशाः॥
यस्योत्केतुभिर् उन्मदद्विपकरव्याविद्धलोध्रद्रुमैर् उद्धूतेन वनाध्वनि ध्वनिनदद्विन्ध्याद्रिरन्ध्रैर् ब्बलैः बाले-यच्छविधूसरेण रजसा मन्दाङ्शु संलक्ष्यते पर्य्यावृत्तशिखण्डिचन्द्रक इव ध्यामं रवेर् म्मण्डल{+ं}॥
तस्य प्रभोर् व्वङ्शकृतां नृपाणां पादाश्रयाद् विश्रुतपुण्यकीर्त्तिः। भृत्यः स्वनैभृत्यजिता-रिषट्क आसीद् वशीयान् किल षष्ठिदत्तः॥
हिमवत इव गाङ्गस् तुङ्गनम्रः प्रवाहः शशभृत इव रेवावारिराशिः प्रथीयाण् परम् अभिगमनीयः शुद्धिमान् अन्ववायो यत उदितगरि-म्णस् तायते नैगमानां॥
तस्यानुकूलः (क्)उलजात् कलत्(त्)रात् सुतः प्रसूतो यशसां प्रसूतिः। हरेर् इवाङ्शं वशिनं वरार्हं वराहदासं यम् उदाहरन्ति॥
सुकृतिविषयितुङ्गं रूढमूलंधरायां स्थितिम् अपगतभङ्गां स्थेयसीम् आदधा(नं) गुरुशिखरम् इवाद्रेस् तत्कुलं स्वात्मभूत्या रविर् इव रविकीर्त्तिः सुप्रकाशं व्यधत्त॥
बिभ्रता शुभ्रम् अभ्रङ्शिस्मार्त्तं वर्त्मोचितं सतां न विसं{-ब्}वा-दिता येनकलाव् अपि कुलीनता॥ धुतधी(द्)ईधितिध्वान्तान्हविर्भुज इवाध्वराण् भानुगुप्ता ततः साध्वीतनयांस् त्रीन् अजीजनट्॥
भगवद्दोष इत्य् आसीत्प्रथमः कार्य्यवर्त्मसु। आल-म्बनं बान्धवानामन्धकानाम् इवोद्धवः॥
बहुनयविधिवेधा गह्वरे प्य् अर्थमार्ग्गे विदुर इव विदूरं प्रेक्षया प्रेक्षमाणः। वचनरचनबन्धे संस्कृतप्राकृते यः कविभिर् उदि-तरागं गीयते गीरभिज्ञैः॥
प्रणिधिदृगनुगन्त्रा यस्य बौद्धेन चाक्ष्णा न निशि तनु दवीयो वास्त्य् अदृष्टं धरित्त्र्यां पदम् उदयि दधानो नन्तरं तस्य चाभूत् स भयम् अभयदत्तो ना(म)-(वि)[?घ्न](?न्) प्(र्)अजानां॥
विन्ध्यस्यावन्ध्यकर्म्मा शिखरतटपतत्पाण्डुरेवाम्बुराशेर् ग्गोलाङ्गूलैः सहेलं प्लुतिनमिततरोः पारियात्त्रस्य चाद्रेः। आ सिन्धोर् अन्तरालं निजशुचिसचिवाद्ध्या-सित्[आ]न्[ए]कदेशं राजस्थानीयवृत्या सुरगुरुर् इव यो वर्ण्णिनां भूतये पाट्॥
विहितसकल(व्)अर्ण्णासङ्करं शान्तडिम्बं कृत इव कृतम् एतद् येन राज्यं निराधि। स धुरम् अयम् इदानीं दोषकुम्भस्य सूनुर् गुरु वहति तदूढां धर्म्मतो धर्म्मदोषः॥
स्वसुखम् अनभिवाच्छन् दुर्ग्गमे द्ध्वन्य् असङ्गां धुरम् अतिगुरुभारां यो दधद् भर्तुर् अर्थे। वहति नृपतिवेषं केवलं लक्ष्ममात्त्रं वलिनम् इव विलम्बं कम्बलं बाहुलेयः॥
उपहितहितरक्षामण्डनो जातिरत्नैर् भुज इव पृथुलांसस् तस्य दक्षः कनीयाण् महद् इदम् उदपानं खानयाम् आस बिभ्र-च् (छ्)र्(उ)तिहृदयनितान्तानन्दि निर्द्दोषनाम॥
सुखाश्रेयच्छायं परिणतिहितस्वादुफलदं गजेन्द्रेणारुग्णं द्रुमम् इव कृतान्तेन बलिना। पितृव्यं प्रोद्दिश्य प्रियम् अभयदत्तं पृ-थुधिया प्रथीयस् तेनेदं कुशलम् इह कर्म्मोपरचितं॥ पञ्चसु शतेषु शरदां यातेष्व् एकान्ननवतिसहितेषु। मालवगणस्थितिवशात् कालज्ञानाय लिखितेषु॥
य-[स्]मिन् काले कलमृदुगिरां कोकिलानां प्रलापा भिन्दन्तीव स्मरशरनिभाः प्रोषितानां मनांसि। भृङ्गालीनां ध्वनिर् अनुवनं भारमन्द्रश् च यस्मिन्न् आधूतज्यं धनुर् इव नदच् छ्रूयते पुष्प२३केतोः॥
प्रियतमकुपितानां र्(आ)मयन् बद्धरागं किसलयम् इव मुग्धं मानसं मानिनीनां उपनयति नभस्वान् मानभङ्गाय यस्मिन् कुसुमसमयमासे तत्त्र निर्म्मापितो य(ं)॥
यावत् तुङ्गैर् उदन्वान् किरणसमुदय्(आ)सङ्गकान्तं तरङ्गैर् आलिङ्गन्न् इन्दुबिम्बं गुरुभिर् इव भुजैः संविधत्ते सुहृत्तां बिभ्रत्सौधान्तलेखावलयपरिगतिं मुण्डमालाम् इवायं सत्कूपस् तावद् आ-स्ताम् अमृतसमरसस्वच्छविष्यन्दिताम्बुः॥
धीमां दक्षो दक्षिणः सत्यसन्धो ह्रीमां च्छूरो वृद्धसेवी कृतज्ञः। बद्धोत्साहः स्वामिकार्य्येष्व् अखेदी निर्द्दोषो यं पातु धर्म्मं चिराय उत्कीर्ण्णा गोवि(न्दे)न॥[1]
सन्दर्भ
- ↑ "Mandasor Inscription of Yasodharman's Ministerial Family". मूल से 31 अगस्त 2019 को पुरालेखित. अभिगमन तिथि 7 दिसंबर 2019.